|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.88. अध्यायः 088
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति प्रजाश्यः करग्रहणादिप्रकारकथनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-88-0x(5572)(68232)
यदा राजा समर्थोऽपि कोशार्थी स्यान्महामते।
कथं प्रवर्तेत करस्तन्मे ब्रूहि पितामह॥ 12-88-1(68233)
भीष्म उवाच। 12-88-2x(5573)
यथादेशं यथाकालं यथाबुद्धि यथाबलम्।
अनुशिष्यात्प्रजा राजा धर्मार्थी तद्धिते रतः॥ 12-88-2(68234)
यथा तासां च मन्येत श्रेय आत्मन एव च।
तथा धर्माणि सर्वाणि राजा राष्ट्रेषु वर्तयेत्॥ 12-88-3(68235)
मधुदोहं दुहेद्राष्ट्रं भ्रमरान्न प्रपातयेत्।
वत्सापेक्षी दुहेच्चैव स्तनांश्च न विकुट्टयेत्॥ 12-88-4(68236)
जलौकावत्पिबेद्राष्ट्रं मृदुनैव नराधिपः।
व्याघ्रीव च हरेत्पुत्रान्संदशेन्न च पीडयेत्॥ 12-88-5(68237)
यथा शल्यकवानाखुः पदं धूनयते सदा।
अतीक्ष्णेनाभ्युपायेन तथा राष्ट्रं समापिबेत्॥ 12-88-6(68238)
अल्पेनाल्पेन देयेन वर्धमानं प्रदापयेत्।
ततो भूयस्ततो भूयः क्रमवृद्धिं समाचरेत्॥ 12-88-7(68239)
दमयन्निव दम्यानि शश्वद्भारं विवर्धयेत्।
मृदुपूर्वं प्रयत्नेन पाशानभ्यवहारयेत्॥ 12-88-8(68240)
सकृत्पाशावकीर्णास्ते न भविष्यन्ति दुर्दमाः।
उचितेनैव भोक्तव्यास्ते भविष्यन्त्ययत्नतः॥ 12-88-9(68241)
तस्मात्सर्वसमारम्भो दुर्लभः पुरुषं प्रति।
यथा मुख्यान्सान्त्वयित्वा भोक्तव्या इतरे जनाः॥ 12-88-10(68242)
ततस्तान्भेदयित्वा तु परस्परविवक्षितान्।
भुञ्जीत सान्त्वयंश्चैव यथासुखमयत्नतः॥ 12-88-11(68243)
न चास्थाने न चाकाले करांस्तेभ्यो निपातयेत्।
आनुपूर्व्येण सान्त्वेन यथाकालं यथाविधि॥ 12-88-12(68244)
उपायान्प्रब्रवीम्येतान्न मे माया विवक्षिता।
अनुपायेन दमयन्प्रकोपयति वाजिनः॥ 12-88-13(68245)
पानागारनिवोशाश्च वेश्याः प्रापणिकास्तथा।
कुशीलवाः सकितवा ये चान्ये केचिदीदृशाः॥ 12-88-14(68246)
नियम्याः सर्व एवैते ये राष्ट्रस्योपघातकाः।
एते राष्ट्रेऽभितिष्ठन्तो बाधन्ते भद्रिकाः प्रजाः॥ 12-88-15(68247)
न केनचिद्याचितव्यः कश्चित्किंचिदनापदि।
इति व्यवस्था भूतानां पुरस्तान्मनुना कृता॥ 12-88-16(68248)
सर्वे तथाऽनुजीवेयुर्न कुर्युः कर्म चेदिह।
सर्व एव इमे लोका न भवेयुरसंशयम्॥ 12-88-17(68249)
प्रभुर्नियमने राजा य एतान्न नियच्छति।
भुङ्क्ते स तस्य पापस्य चतुर्भागमिति श्रुतिः॥ 12-88-18(68250)
भोक्ता तस्य तु पापस्य सुकृतस्य यथातथा।
नियन्तव्याः सदा राज्ञा पापा ये स्युर्नराधिप॥ 12-88-19(68251)
कृतपापस्त्वसौ राजा य एतान्न नियच्छति।
तथा कृतस्य धर्मस्य चतुर्भागमुपाश्नुते। 12-88-20(68252)
स्थानान्येतानि संयम्य प्रसङ्गो भूतिनाशनः।
कामे प्रसक्तः पुरुषः किमकार्यं विवर्जयेत्॥ 12-88-21(68253)
मद्यमांसपरस्वानि तथा दारधनानि च।
आहरेद्रागवशगस्तथा शास्त्रं प्रदर्शयेत्॥ 12-88-22(68254)
आपद्येव तु याचन्ते येषां नास्ति परिग्रहः।
दातव्यं धर्मतस्तेभ्यस्त्वनुक्रोशाद्भयान्न तु॥ 12-88-23(68255)
मा ते राष्ट्रे याचनका भवेयुर्मा च दस्यवः।
उपादातार एवैते नैते भूतस्य भावकाः॥ 12-88-24(68256)
ये भूतान्यनुगृह्णन्ति वर्धयन्ति च ये प्रजाः।
तेते राष्ट्रेषु वर्तन्तां मा भूतानां प्रबाधकाः॥ 12-88-25(68257)
दण्ड्यास्ते च महाराज धनादानप्रयोजकाः।
प्रयोगं कारयेथास्ते यथा दद्युः करांस्तथा॥ 12-88-26(68258)
कृषिगोरक्ष्यवाणिज्यं यच्चान्यत्किंचिदीदृशम्।
पुरुषैः कारयेत्कर्म बहुभिः कर्मभेदतः॥ 12-88-27(68259)
नरश्चेत्कृषिगोरक्ष्यं वाणिज्यं चाप्यनुष्ठितः।
संशयं लभते किंचित्तेन राजा विगर्ह्यते॥ 12-88-28(68260)
धनिनः पूजयेन्नित्यं पानाच्छादनभोजनैः।
वक्तव्याश्चानुगृह्णीध्वं प्रजाः सह मयेति वै॥ 12-88-29(68261)
अङ्गमेतन्महद्राज्ये धनिनो नाम भारत।
ककुदं सर्वभूतानां धनस्थो नात्र संशयः॥ 12-88-30(68262)
प्राज्ञः शूरो धनस्थश्च स्वामी धार्मिक एव च।
तपस्वी सत्यवादी च बुद्धिमांश्चापि रक्षति॥ 12-88-31(68263)
तस्मात्सर्वेषु भूतेषु प्रीतिमान्भव पार्थिव।
सत्यमार्जवमक्रोधमानृशंस्यं च पालय॥ 12-88-32(68264)
एवं दण्डं च कोशं च मित्रं भूमिं च लप्स्यसि।
सत्यार्जवपरो राजन्मित्रकोशबलान्वितः॥ ॥ 12-88-33(68265)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि अष्टाशीतितमोऽध्यायः॥ 88॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-88-4 भ्रमरा इव पादपमिति झ. पाठः॥ 12-88-6 शल्यकवांस्तीक्ष्णतुण्ड आखुविशेषः। सहि निद्रितस्य मनुष्यस्य पादतलस्थं मांसमतीक्ष्णेनैवोपायेन भक्षयति। यथा विलेखकः कर्णमाखुः पादत्वचं यथेति ड. थ. पाठः॥ 12-88-8 दम्यानि वत्सतरकुलानि यथा क्रमेण दमयेतद्वत्प्रजा अपीत्याह दमयन्निवेति। अभ्यव हारयेद्वाहयेत्॥ 12-88-9 सकृत्सद्यः पाशावकीर्णाः सन्तो नभविष्यन्ति मरिष्यन्ति। यतो दुर्दमा अथ उचितेन क्रमेण ते भोक्तव्या दम्याः प्रजाश्च। असत्पाशावकीर्णास्ते भविष्यन्तीह दुर्मदाः। इति ड.थ. पाठः॥ 12-88-10 पुरुषं प्रतीत्यस्य प्रतिपुरुषमित्यर्थः॥ 12-88-11 ततो मुख्यद्वारा तानितरान् विवक्षितान्वोदुमिष्टान्। ततस्तान्भोजयित्वात परस्परविवर्जितान्। इति थ.द. पाठः॥ 12-88-14 मद्यशालाः संदेशहराः कुट्टन्यः। कुत्सितेन शीलेन वान्ति गच्छन्ति धर्मं हिंसन्ति वा कुशील वा विटाः। कितमा द्यूतकाराश्च नि ग्राह्या इत्याह पानेति॥ 12-88-15 भद्रिकाः कल्याणः॥ 12-88-16 याचितव्यः दत्तमृणं करं वेति शेषः॥ 12-88-17 अनुजावेयुरनुसरेयुः। अन्यथा दोषमाह नेति॥ 12-88-20 तथा तथाभूतः नियच्छन्नित्यर्थः॥ 12-88-21 स्थानानि मद्यादीनाम्॥ 12-88-22 शास्त्रमाज्ञां प्रदर्शयेत्प्रवर्तयेत्॥ 12-88-28 संशयं चोरेभ्यो राजकीयेभ्यो वा भयात्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|